महायोगपीठे तटे भीमरथ्या वरं पुण्डरीकाय दातुं मुनीन्द्रैः . समागत्य निष्ठन्तमानंदकंदं परब्रह्मलिङ्गं भजे पाण्डुरङ्गम् .. १.. तटिद्वाससं नीलमेघावभासं रमामंदिरं सुंदरं चित्प्रकाशम् . वरं त्विष्टकायां समन्यस्तपादं परब्रह्मलिङ्गं भजे पाण्डुरङ्गम् .. २..
प्रमाणं भवाब्धेरिदं मामकानां नितम्बः कराभ्यां धृतो येन तस्मात् . विधातुर्वसत्यै धृतो नाभिकोशः परब्रह्मलिङ्गं भजे पाण्डुरङ्गम् .. ३..
स्फुरत्कौस्तुभालङ्कृतं कण्ठदेशे श्रिया जुष्टकेयूरकं श्रीनिवासम् . शिवं शांतमीड्यं वरं लोकपालं परब्रह्मलिङ्गं भजे पाण्डुरङ्गम् .. ४..
शरच्चंद्रबिंबाननं चारुहासं लसत्कुण्डलाक्रांतगण्डस्थलांतम् . जपारागबिंबाधरं क~जनेत्रं परब्रह्मलिङ्गं भजे पाण्डुरङ्गम्.. ५..
किरीटोज्वलत्सर्वदिक्प्रांतभागं सुरैरर्चितं दिव्यरत्नैरनर्घैः . त्रिभङ्गाकृतिं बर्हमाल्यावतंसं परब्रह्मलिङ्गं भजे पाण्डुरङ्गम्.. ६.. विभुं वेणुनादं चरंतं दुरंतं स्वयं लीलया गोपवेषं दधानम् . गवां बृन्दकानन्ददं चारुहासं परब्रह्मलिङ्गं भजे पाण्डुरङ्गम् .. ७..
अजं रुक्मिणीप्राणसञ्जीवनं तं परं धाम कैवल्यमेकं तुरीयम् . प्रसन्नं प्रपन्नार्तिहं देवदेवं परब्रह्मलिङ्गं भजे पाण्डुरङ्गम् .. ८..
स्तवं पाण्डुरंगस्य वै पुण्यदं ये पठन्त्येकचित्तेन भक्त्या च नित्यम् . भवांभोनिधिं ते वितीर्त्वान्तकाले हरेरालयं शाश्वतं प्राप्नुवन्ति ..
.. इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य श्रीगोविन्दभगवत्पूज्यपादशिष्यस्य श्रीमच्छङ्करभगवतः कृतौ पाण्डुरङ्गाष्टकं संपूर्णम् ..
|